Skip to content

60. अमानुषोपसर्गप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

षष्टितमोऽध्यायः ।

अथातोऽमानुषोपसर्गप्रतिषेधमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः |
इति यत् प्रागभिहितं विस्तरस्तस्य वक्ष्यते ||३||

गुह्यानागतविज्ञानमनवस्थाऽसहिष्णुता |
क्रिया वाऽमानुषी यस्मिन् सग्रहः परिकीर्त्यते ||४||

अशुचिं भिन्नमर्यादं क्षतं व यदि वाऽक्षतम् |
हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि वा ||५||

असङ्ख्येया ग्रहगणा ग्रहाधिपतयस्तु ये |
व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाऽष्टधा ||६||

देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः |
रक्षांसि या चापि पिशाचजातिरेषोऽष्टको देवगणो ग्रहाख्यः ||७||

सन्तुष्टः शुचिरपि चेष्टगन्धमाल्यो निस्तन्द्री ह्यवितथसंस्कृतप्रभाषी |
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्यण्यो भवति नरः स देवजुष्टः ||८||

संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः |
सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति च देवशत्रुजुष्टः ||९||

हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः |
नृत्यन् वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः ||१०||

ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतमतिरल्पवाक् सहिष्णुः |
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ||११||

प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः |
मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भुक्तो भवति पितृग्रहाभिभूतः ||१२||

भूमौ यः प्रसरति सर्पवत् कदाचित् सृक्किण्यौ विलिखति जिह्वया तथैव |
निद्रालुर्गडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः ||१३||

मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः |
क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति च रक्षसा गृहीतः ||१४||

उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः |
बह्वाशी विजनहिमाम्बुरात्रिसेवी व्याविग्नो भ्रमति रुदन् पिशाचजुष्टः ||१५||

स्थूलाक्षस्त्वरितगतिः स्वफेनलेही निद्रालुः पतति च कम्पते च योऽति |
यश्चाद्रिद्विरदनगादिविच्युतः सन् संसृष्टो न भवति वार्धकेन जुष्टः ||१६||

देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि |
गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ ||१७||

कृष्णक्षये च पितरः पञ्चम्यामपि चोरगाः |
रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च ||१८||

दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा |
स्वमणिं भास्करस्योस्रा यथा देहं च देहधृक् |
विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम् ||१९||

तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमाश्च सत्यम् |
गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् ||२०||

न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति |
ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः ||२१||

तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपह्मसङ्ख्याः |
असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति ||२२||

निशाचराणां तेषां हि ये देवगणमाश्रिताः |
ते तु तत्सत्त्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः ||२३||

देवग्रहा इति पुनः प्रोच्यन्तेऽशुचयश्च ये |
देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते च देववत् ||२४||

स्वामिशीलक्रियाचाराः क्रम एष सुरादिषु |
निरृतेर्या दुहितरस्तासां स प्रसवः स्मृतः ||२५||

सत्यत्वादपवृत्तेषु वृत्तिस्तेषां गणैः कृता |
हिंसाविहारा ये केचिद्देवभावमुपाश्रिताः ||२६||

भूतानीति कृता सञ्ज्ञा तेषां सञ्ज्ञाप्रवक्तृभिः |
ग्रहसञ्ज्ञानि भूतानि यस्मद्वेत्त्यनया भिषक् ||२७||

विद्यया भूतविद्यात्वमत एव निरुच्यते |
तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः ||२८||

जपैः सनियमैर्होमैरारभेत चिकित्सितुम् |
रक्तानि गन्धमाल्यानि बीजानि मधुसर्पिषी ||२९||

भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते |
वस्त्राणि गन्धमाल्यानि मांसानि रुधिराणि च
यानि येषां यथेष्टानि तानि तेभ्यः प्रदापयेत् ||३०||

हिंसन्ति मनुजान् येषु प्रायशो दिवसेषु तु ||३१||

दिनेषु तेषु देयानि तद्भूतविनिवृत्तये |
देवग्रहे देवगृहे हुत्वाऽग्निं प्रा(दा) पयेद्वलिम् ||३२||

कुशस्वस्तिकपूपाज्यच्छत्रपायससम्भृतम् |
असुराय यथाकालं विदध्याच्चत्वरादिषु ||३३||

गन्धर्वस्य गवां मध्ये मद्यमांसाम्बुजाङ्गलम् |
हृद्ये वेश्मनि यक्षस्य कुल्माषासृक्सुरादिभिः ||३४||

अतिमुक्तककुन्दाब्जैः पुष्पैश्च वितरेद्वलिम् |
नद्यां पितृग्रहायेष्टं कुशास्तरणभूषितम् ||३५||

तत्रैवोपहरेच्चापि नागाय विविधं बलिम् |
चतुष्पथे राक्षसस्य भीमेषु गहनेषु वा ||३६||

शून्यागारे पिशाचस्य तीव्रं बलिमुपाहरेत् |
पूर्वमाचरितैर्मन्त्रैर्भूतविद्यानिदर्शितैः ||३७||

न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत् |
अजर्क्षचर्मरोमाणि शल्यकोलूकयोस्तथा ||३८||

हिङ्गु मूत्रं च बस्तस्य धूममस्य प्रयोजयेत् |
एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः ||३९||

गजाह्वपिप्पलीमूलव्योषामलकसर्षपान् |
गोधानकुलमार्जारऋष्यपित्तप्रपेषितान् ||४०||

नस्याभ्यञ्जनसेकेषु विदध्याद्योगतत्त्ववित् |
खराश्वाश्वतरोलूककरभश्वशृगालजम् ||४१||

पुरीषं गृध्रकाकानां वराहस्य च पेषयेत् |
बस्तमूत्रेण तत्सिद्धं तैलं स्यात् पूर्ववद्धितम् ||४२||

शिरीषबीजं लशुनं शुण्ठीं सिद्धार्थकं वचाम् |
मञ्जिष्ठां रजनीं कृष्णां बस्तमूत्रेण पेषयेत् ||४३||

वर्त्यश्छायाविशुष्कास्ताः सपित्ता नयनाञ्जनम् |
नक्तमालफलं व्योषं मूलं श्योनाकबिल्वयोः ||४४||

हरिद्रे च कृता वर्त्यः पूर्ववन्नयनाञजनम् |
सैन्धवं कटुकां हिङ्गं वयःस्थां च वचामपि |
बस्तमूत्रेण सम्पिष्टं मत्स्यपित्तेन पूर्ववत् ||४५||

ये ये ग्रहा न सिध्यन्ति सर्वेषां नयनाञ्जनम् |
पुराणसर्पिर्लशुनं हिङ्ग सिद्धार्थकं वचा ||४६||

गोलोमी चाजलोमी च भूतकेशी जटा तथा |
कुक्कुटा सर्पगन्धा च तथा काणविकाणिके ||४७||

वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्लिका |
अर्कमूलं त्रिकटुकं लता स्रोतोजमञ्जनम् ||४८||

नैपाली हरितालं च रक्षोघ्ना ये च कीर्तिताः |
सिंहव्याघ्रर्क्षमार्जारद्वीपिवाजिगवां तथा ||४९||

श्वाविच्छल्यकगोधानामुष्ट्रस्य नकुलस्य च |
विट्त्वग्रोमवसामूत्ररक्तपित्तनखादयः ||५०||

अस्मिन् वर्गे भिषक् कुर्यात्तैलानि च घृतानि च |
पानाभ्यञ्जननस्येषु तानि योज्यानि जानता ||५१||

अवपीडेऽञ्जने चैव विदध्याद्गुटिकीकृतम् |
विदधीत परीषेके क्वथितं, चूर्णितं तथा ||५२||

उद्धूलने, श्लक्ष्णपिष्टं प्रदेहे चावचारयेत् |
एष सर्वविकारांस्तु मानसानपराजितः ||५३||

हन्यादल्पेन कालेन स्नेहादिरपि च क्रमः |
न चाचौक्षं प्रयुञ्जीत प्रयोगं देवताग्रहे ||५४||

ऋते पिशाचादन्यत्र प्रतिकूलं न चाचरेत् |
वैद्यातुरौ निहन्युस्ते ध्रुवं क्रुद्धा महौजसः ||५५||

हिताहितीये यच्चोक्तं नित्यमेव समाचरेत् |
ततः प्राप्स्यति सिद्धिं च यशश्च विपुलं भिषक् ||५६||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽमानुषोपसर्गप्रतिषेधो
नाम (प्रथमोऽध्यायः, आदितः) षष्टितमोऽध्यायः ||६०||

Last updated on July 9th, 2021 at 05:34 am

Font Resize
en_USEnglish