Skip to content

29. शस्त्र कर्म विधि – सूत्र – अ.हृ.”

अष्टाङ्गहृदये (सूत्रस्थानम्‌)शस्त्रकर्मविधिः

एकोनत्रिंशोऽध्यायः।

अथातः शस्त्रकर्मविधिमध्यायं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

व्रणः सञ्जायते प्रायः पाकाच्छ्वयथुपूर्वकात्‌।

तमेवोपचरेत्तस्माद्रक्षन्‌ पाकं प्रयत्नतः॥१॥

सुशीतलेपसेकास्रमोक्षसंशोधनादिभिः।

शोफोऽल्पोऽल्पोष्मरुक्सामः सवर्णः कठिनः स्थिरः॥२॥

पच्यमानो विवर्णस्तु रागी बस्तिरिवाततः।

स्फुटतीव सनिस्तोदः साङ्गमर्दविजृम्भिकः॥३॥

संरम्भारुचिदाहोषातृड्‌ज्वरानिद्रतान्वितः।

स्त्यानं विष्यन्दयत्याज्यं व्रणवत्स्पर्शनासहः॥४॥

पक्वेऽल्पवेगता म्लानिः पाण्डुता वलिसम्भवः।

नामोऽन्तेषून्नतिर्मध्ये कण्डूशोफादिमार्दवम्‌॥५॥

स्पृष्टे पूयस्य सञ्चारो भवेद्बस्ताविवाम्भसः।

शूलं नर्तेऽनिलाद्दाहः पित्ताच्छोफः कफोदयात्‌॥६॥

रागो रक्ताच्च पाकः स्यादतो दोषैः सशोणितैः।

पाकेऽतिवृत्ते सुषिरस्तनुत्वग्दोषभक्षितः॥७॥

वलीभिराचितः श्यावः शीर्यमाणतनूरूहः।

कफजेषु तु शोफेषु गम्भीरं पाकमेत्यसृक्‌॥८॥

पक्वलिङ्गं ततोऽस्पष्टं यत्र स्याच्छीतशोफता।

त्वक्सावर्ण्यं रुजोऽल्पत्वं घनस्पर्शत्वमश्मवत्‌॥९॥

रक्तपाकमिति ब्रूयात्तं प्राज्ञो मुक्तसंशयः।

अल्पसत्त्वेऽबले बाले पाकाद्वाऽत्यर्थमुद्धते॥१०॥

दारणं मर्मसन्ध्यादिस्थिते चान्यत्र पाटनम्‌।

आमच्छेदे सिरास्नायुव्यापदोऽसृगतिस्रुतिः॥११॥

रुजोऽतिवृद्धिर्दरणं विसर्पो वा क्षतोद्भवः।

तिष्ठन्नन्तः पुनः पूयः सिरास्नाय्वसृगामिषम्‌॥१२॥

विवृद्धो दहति क्षिप्रं तृणोलपमिवानलः।

यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते॥१३॥

श्वपचाविव विज्ञेयौ तावनिश्चितकारिणौ।

प्राक्‌ शस्त्रकर्मणश्चेष्टं भोजयेदन्नमातुरम्‌॥१४॥

पानपं पाययेन्मद्यं तीक्ष्णं यो वेदनाक्षमः।

न मूर्च्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते॥१५॥

अन्यत्र मूढगर्भाश्ममुखरोगोदरातुरात्‌।

अथाहृतोपकरणं वैद्यः प्राङ्‌मुखमातुरम्‌॥१६॥

सम्मुखो यन्त्रयित्वाऽऽशु न्यस्येन्मर्मादि वर्जयन्‌।

अनुलोमं सुनिशितं शस्त्रमापूयदर्शनात्‌॥१७॥

सकृदेवाहरेत्तच्च पाके तु सुमहत्यपि।

पाटयेत्‌ द्व्यङ्गुलं सम्यग्द्व्यङ्गुलत्र्यङ्गुलान्तरम्‌॥१८॥

एषित्वा सम्यगेषिण्या परितः सुनिरूपितम्‌।

अङ्गुलीनालवालैर्वा यथादेशं यथाशयम्‌॥१९॥

यतो गतां गतिं विद्यादुत्सङ्गो यत्र यत्र च।

तत्र तत्र व्रणं कुर्यात्सुविभक्तं निराशयम्‌॥२०॥

आयतं च विशालं च यथा दोषो न तिष्ठति।

शौर्यमाशुक्रिया तीक्ष्णं शस्त्रमस्वेदवेपथू॥२१॥

असम्मोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते।

तिर्यक्छिन्द्याल्ललाटभ्रूदन्तवेष्टकजत्रुणि॥२२॥

कुक्षिकक्षाक्षिकूटौष्ठकपोलगलवङ्‌क्षणे।

अन्यत्र छेदनात्तिर्यक्‌ सिरास्नायुविपाटनम्‌॥२३॥

शस्त्रेऽवचारिते वाग्भिः शीताम्भोभिश्च रोगिणम्‌।

आश्वास्य परितोऽङ्गुल्या परिपीड्य व्रणं ततः॥२४॥

क्षालयित्वा कषायेण प्लोतेनाम्भोऽपनीय च।

गुग्गुल्वगुरुसिद्धार्थहिङ्गुसर्जरसान्वितैः॥२५॥

धूपयेत्पटुषड्‌ग्रन्थानिम्बपत्रैर्घृतप्लुतैः।

तिलकल्काज्यमधुभिर्यथास्वं भेषजेन च॥२६॥

दिग्धां वर्तिं ततो दद्यात्तैरेवाच्छादयेच्च ताम्‌।

घृताक्तैः सक्तुभिश्चोर्ध्वं घनां कवलिकां ततः॥२७॥

निधाय युक्त्या बध्नीयात्पट्टेन सुसमाहितम्‌।

पार्श्वे सव्येऽपसव्ये वा नाधस्तान्नैव चोपरि॥२८॥

शुचिसूक्ष्मदृढाः पट्टाः कवल्यः सविकेशिकाः।

धूपिता मृदवः श्लक्ष्णा निर्वलीका व्रणे हिताः॥२९॥

कुर्वीतानन्तरं तस्य रक्षां रक्षोनिषिद्धये।

बलिं चोपहरेत्तेभ्यः सदा मूर्ध्ना च धारयेत्‌॥३०॥

लक्ष्मीं गुहामतिगुहां जटिलां ब्रह्मचारिणीम्‌।

वचां छत्रामतिच्छत्रां दूर्वां सिद्धार्थकानपि॥३१॥

ततः स्नेहदिनेहोक्तं तस्याचारं समादिशेत्‌।

दिवास्वप्नो व्रणे कण्डूरागरुक्शोफपूयकृत्‌॥३२॥

स्त्रीणां तु स्मृतिसंस्पर्शदर्शनैश्चलितस्रुते।

शुक्रे व्यवायजान्‌ दोषानसंसर्गेऽप्यवाप्नुयात्‌॥३३॥

(व्रणे श्वयथुरायासात्‌ स च रागश्च जागरात्‌।

तौ च रुक्‌ च दिवास्वापात्ताश्च मृत्युश्च मैथुनात्‌॥१॥)

भोजनं च यतासात्म्यं यवगोधूमषष्टिकाः।

मसूरमु   द्गतुवरीजीवन्तीसुनिषण्णकाः॥३४॥

बालमूलकवार्ताकतण्डुलीयकवास्तुकम्‌।

कारवेल्लककर्कोटपटोलकटुकाफलम्‌॥३५॥

सैन्धवं दाडिमं धात्री घृतं तप्तहिमं जलम्‌।

जीर्णशाल्योदनं स्निग्धमल्पमुष्णोदकोत्तरम्‌॥३६॥

भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति।

अशितं मात्रया काले पथ्यं याति जरां सुखम्‌॥३७॥

अजीर्णात्त्वनिलादीनां विभ्रमो बलवान्‌ भवेत्‌।

ततः शोफरुजापाकदाहानाहानवाप्नुयात्‌॥३८॥

नवं धान्यं तिलान्‌ माषान्‌ मद्यं मांसमजाङ्गलम्‌।

क्षीरेक्षुविकृतीरम्लं लवणं कटुकं त्यजेत्‌॥३९॥

यच्चान्यदपि विष्टम्भि विदाहि गुरु शीतलम्‌।

वर्गोऽयं नवधान्यादिर्व्रणिनः सर्वदोषकृत्‌॥४०॥

मद्यं तीक्ष्णोष्णरूक्षाम्लमाशु व्यापादयेद्‌व्रणम्‌।

वालोशीरैश्च वीज्येत न चैनं परिघट्टयेत्‌॥४१॥

न तुदेन्न च कण्डूयेच्चेष्टमानश्च पालयेत्‌।

स्निग्धवृद्धद्विजातीनां कथाः शृण्वन्मनःप्रियाः॥४२॥

आशावान्‌ व्याधिमोक्षाय क्षिप्रं व्रणमपोहति।

तृतीयेऽह्नि पुनः कुर्याद्‌व्रणकर्म च पूर्ववत्‌॥४३॥

प्रक्षालनादि, दिवसे द्वितीये नाचरेत्तथा।

तीव्रव्यथो विग्रथितश्चिरात्संरोहति व्रणः॥४४॥

स्निग्धां रूक्षां श्लथां गाढां दुर्न्यस्तां च विकेशिकाम्‌।

व्रणे न दद्यात्कल्कं वा स्नेहात्क्लेदो विवर्द्धते॥४५॥

मांसच्छेदोऽतिरुग्रौक्ष्याद्दरणं शोणितागमः।

श्लथातिगाढदुर्न्यासैर्व्रणवर्त्मावघर्षणम्‌॥४६॥

सपूतिमांसं सोत्सङ्गं सगतिं पूयगर्भिणम्‌।

व्रणं विशोधयेच्छीघ्रं स्थिता ह्यन्तर्विकेशिका॥४७॥

व्यम्लं तु पाटितं शोफं पाचनैः समुपाचरेत्‌।

भोजनैरुपनाहैश्च नातिव्रणविरोधिभिः॥४८॥

सद्यः सद्योव्रणान्‌ सीव्येद्विवृतानभिघातजान्‌।

मेदोजांल्लिखितान्‌ ग्रन्थीन्‌ ह्रस्वाः पालीश्च कर्णयोः॥४९॥

शिरोक्षिकूटनासौष्ठगण्डकर्णोरुबाहुषु।

ग्रीवाललाटमुष्कस्फिङ्‌मेढ्रपायूदरादिषु॥५०॥

गम्भीरेषु प्रदेशेषु मांसलेष्वचलेषु च।

न तु वङ्‌क्षणकक्षादावल्पमांसे चले व्रणान्‌॥५१॥

वायुनिर्वाहिणः शल्यगर्भान्‌ क्षारविषाग्निजान्‌।

सीव्येच्चलास्थिशुष्कास्रतृणरोमापनीय तु॥५२॥

प्रलम्बि मांसं विच्छिन्नं निवेश्य स्वनिवेशने।

सन्ध्यस्थि च स्थिते रक्ते स्नाय्वा सूत्रेण वल्कलैः॥५३॥

सीव्येन्न दूरे नासन्ने गृह्णन्नाल्पं न वा बहु।

सान्त्वयित्वा ततश्चार्तं व्रणे मधुघृतद्रुतैः॥५४॥

अञ्जनक्षौमजमषीफलिनीशल्लकीफलैः।

सरोध्रमधुकैर्दिग्धे युञ्ज्याद्बन्धादि पूर्ववत्‌॥५५॥

व्रणो निःशोणितौष्ठो यः किञ्चिदेवावलिख्य तम्‌।

सञ्जातरुधिरं सीव्येत्सन्धानं ह्यस्य शोणितम्‌॥५६॥

बन्धनानि तु देशादीन्‌ वीक्ष्य युञ्जीत तेषु च।

आविकाजिनकौशेयमुष्णं, क्षौमं तु शीतलम्‌॥५७॥

शीतोष्णं तूलसन्तानकार्पासस्नायुवल्कजम्‌।

ताम्रायस्त्रपुसीसानि व्रणे मेदःकफाधिके॥५८॥

भङ्गे च युञ्जात्फलकं चर्मवल्ककुशादि च।

स्वनामानुगताकारा बन्धास्तु दश पञ्च च॥५९॥

कोशस्वस्तिकमुत्तोलीचीनदामानुवेल्लितम्‌।

खट्वाविबन्धस्थगिकावितानोत्सङ्गगोष्फणाः॥६०॥

यमकं मण्डलाख्यं च पञ्चाङ्गी चेति योजयेत्‌।

(विदध्यात्तेषु तेष्वेव कोशमङ्गुलिपर्वसु।

स्वस्तिकं कर्णकक्षादिस्तनेषूक्तं च सन्धिषु॥१॥

मुत्तोलीं मेढ्रग्रीवादौ युञ्जयाच्चीनमपाङ्गयोः।

सम्बाधेऽङ्गे तथा दाम, शाखास्वेवानुवेल्लितम्‌॥२॥

खट्वां गण्डे हनौ शङ्खे, विबन्धं पृष्ठकोदरे।

अङ्गुष्ठाङ्गुलिमेढ्राग्रे स्थगिकामन्त्रवृद्धिषु॥३॥

वितानं पृथुलाङ्गादौ तथा शिरसि चेरयेत्‌।

विलम्बिनि तथोत्सङ्गं, नासौष्ठचिबुकादिषु॥४॥

गोष्फणं सन्धिषु तथा, यमकं यमिके व्रणे।

वृत्तेऽङ्गे मण्डलाख्यं च, पञ्चाङ्गीं चोर्ध्वजत्रुषु॥५॥)

यो यत्र सुनिविष्टः स्यात्तं तेषां तत्र बुद्धिमान्‌॥६१॥

बन्धीयाद्गाढमूरुस्फिक्कक्षावङ्‌क्षणमूर्धसु।

शाखावदनकर्णोरः पृष्ठपार्श्वगलोदरे॥६२॥

समं मेहनमुष्के च, नेत्रे सन्धिषु च श्लथम्‌।

बन्धीयाच्छिथिलस्थाने वातश्लेष्मोद्भवे समम्‌॥६३॥

गाढमेव समस्थाने, भृशं गाढं तदाशये।

शीते वसन्तेऽपि च तौ मोक्षणीयौ त्र्यहात्त्र्यहात्‌॥६४॥

पित्तरक्तोत्थयोर्बन्धो गाढस्थाने समो मतः।

समस्थाने श्लथो, नैव शिथिलस्याशये तथा॥६५॥

सायंप्रातस्तयोर्मोक्षो ग्रीष्मे शरदि चेष्यते।

अबद्धो दंशमशकशीतवातादिपीडितः॥६६॥

दुष्टीभवेच्चिरं चात्र न तिष्ठेत्स्नेहभेषजम्‌।

कृच्छ्रेण शुद्धिं रूढिं वा याति रूढो विवर्णताम्‌॥६७॥

बद्धस्तु चूर्णितो भग्नो विश्लिष्ट: पाटितोऽपि वा।

छिन्नस्नायुसिरोऽप्याशु सुखं संरोहति व्रणः॥६८॥

उत्थानशयनाद्यासु सर्वेहासु न पीड्यते।

उद्धृत्तौष्ठः समुत्सन्नो विषमः कठिनोऽतिरुक्‌॥६९॥

समो मृदुररुक्‌ शीघ्रं व्रणः शुध्यति रोहति।

स्थिराणामल्पमांसानां रौक्ष्यादनुपरोहताम्‌॥७०॥

प्रच्छाद्यमौषधं पत्रैर्यथादोषं यथर्तु च।

अजीर्णतरुणाच्छिद्रैः समन्तात्सुनिवेशितैः॥७१॥

धौतैरकर्कशैः क्षीरिभूर्जार्जुनकदम्बजैः।

कुष्ठिनामग्निदग्धानां पिटिकामधुमेहिनाम्‌॥७२॥

कर्णिकाश्चोन्दुरुविषे क्षारदग्धा विषान्विताः।

बन्धनीया न मांस्पाके गुदपाके च दारुणे॥७३॥

शीर्यमाणाः सरुग्दाहाः शोफावस्थाविसर्पिणः।

अरक्षया व्रणे यस्मिन्‌ मक्षिका निक्षिपेत्कृमीन्‌॥७४॥

ते भक्षयन्तः कुर्वन्ति रुजाशोफास्रसंस्रवान्‌।

सुरसादिं प्रयुञ्जीत तत्र धावनपूरणे॥७५॥

सप्तपर्णकरञ्जार्कनिम्बराजादनत्वचः।

गोमूत्रकल्कितो लेपः सेकः क्षाराम्बुना हितः॥७५॥

प्रच्छाद्य मांसपेश्या वा व्रणं तानाशु निर्हरेत्‌।

न चैनं त्वरमाणोऽन्तः सदोषमुपरोहयेत्‌॥७७॥

सोऽल्पेनाप्यपचारेण भूयो विकुरुते यतः।

रुढेऽप्यजीर्णव्यायामव्यवायादीन्‌ विवर्जयेत्‌॥७८॥

हर्षं क्रोधं भयं चापि यावदास्थैर्यसम्भवात्‌।

आदरेणानुवर्त्योऽयं मासान्‌ षट्‌ सप्त वा विधिः॥७९॥

उत्पद्यमानासु च तासु तासु

वार्तासु दोषादिबलानुसारी।

तैस्तैरुपायैः प्रयतश्चिकित्से-

दालोचयन्‌ विस्तरमुत्तरोक्तम्‌॥८०॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शस्त्रकर्मविधिर्नामैकोनत्रिंशोऽध्यायः॥२९॥

Last updated on August 11th, 2021 at 10:45 am

Font Resize
en_USEnglish