Skip to content

23. S`hiroroga Vidnyaaneeya – Uttara – AH”

अष्टाङ्गहृदये (उत्तरस्थानम्‌)

शिरोरोगविज्ञानीयं त्रयोविंशोऽध्यायः।

अथातः शिरोरोगविज्ञानीयं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

धूमातपतुषाराम्बुक्रीडातिस्वप्नजागरैः।

उत्स्वेदाधिपुरोवातबाष्पनिग्रहरोदनैः॥१॥

अत्यम्बुमद्यपानेन कृमिभिर्वेगधारणैः।

उपधानमृजाभ्यङ्गद्वेषाधः प्रततेक्षणैः॥२॥

असात्म्यगन्धदुष्टामभाष्याद्यैश्च शिरोगताः।

जनयन्त्यामयान्‌ दोषाः तत्र मारुतकोपतः॥३॥

निस्तुद्येते भृशं शङ्खौ घाटा सम्भिद्यते तथा।

भ्रूवोर्मध्य ललाटं च पततीवातिवेदनम्‌॥४॥

बाध्येते स्वनतः श्रोत्रे निष्कृष्येत इवाक्षिणी।

घूर्णतीव शिरः सर्वं सन्धिभ्य इव मुच्यते॥५॥

स्फुरत्यति सिराजालं कन्धराहनुसङ्‌ग्रहः।

प्रकाशासहता घ्राणस्रावोऽकस्माद्व्यथाशमौ॥६॥

मार्दवं मर्दनस्नेहस्वेदबन्धैश्च जायते।

शिरस्तापोऽयम्‌ अर्धे तु मूर्ध्नः सोऽर्धावभेदकः॥७॥

पक्षात्कुप्यति मासाद्वा स्वयमेव च शाम्यति।

अतिवृद्धस्तु नयनं श्रवणं वा विनाशयेत्‌॥८॥

शिरोभितापे पित्तोत्थे शिरोधूमायनं ज्वरः।

स्वेदोऽक्षिदहनं मूर्च्छा निशि शीतैश्च मार्दवम्‌॥९॥

अरुचिः कफजे मूर्ध्नाे गुरुस्तिमितशीतता।

शिरानिस्पन्दताऽऽलस्यं रुङ्‌मन्दाऽह्न्यधिका निशि॥१०॥

 तन्द्रा शूनाक्षिकूटत्वं कर्णकण्डूयनं वमिः।

रक्तात्‌ पित्ताधिकरुजः सर्वैः स्यात्सर्वलक्षणः॥११॥

सङ्कीर्णैर्भोजनैर्मूर्ध्नि क्लेदिते रुधिरामिषे।

कोपिते सन्निपाते च जायन्ते मूर्ध्नि जन्तवः॥१२॥

शिरसस्ते पिबन्तोऽस्रं घोराः कुर्वन्ति वेदनाः।

चित्तविभ्रंशजननीर्ज्वरः कासो बलक्षयः॥१३॥

रौक्ष्यशोफव्यधच्छेददाहस्फुरणपूतिताः।

कपाले तालुशिरसोः कण्डूः शोषः प्रमीलकः॥१४॥

ताम्राच्छसिङ्घाणकता कर्णनादश्च जन्तुजे।

वातोल्बणाः शिरः कम्पं तत्संज्ञं कुर्वते मलाः॥१५॥

पित्तप्रधानैर्वाताद्यैः शङ्खे शोफः सशोणितैः।

तीव्रदाहरुजारागप्रलापज्वरतृड्‌भ्रमाः॥१६॥

तिक्तास्यः पीतवदनः क्षिप्रकारी स शङ्खकः।

त्रिरात्राज्जीवितं हन्ति सिध्यत्यप्याशु साधितः॥१७॥

पित्तानुबद्धः शङ्खाक्षिभ्रूललाटेषु मारुतः।

रुजं सस्पन्दनां कुर्यादनुसूर्योदयोदयाम्‌॥१८॥

आमध्याह्नं विवर्धिष्णुः क्षुद्वतः सा विशेषतः।

अव्यवस्थितशीतोष्णसुखा शाम्यत्यतः परम्‌॥१९॥

सूर्यावर्तः स इत्युक्ता दश रोगाः शिरोगताः।

शिरस्येव च वक्ष्यन्ते कपाले व्याधयो नव॥२०॥

कपाले पवने दुष्टे गर्भस्थस्यापि जायते।

सवर्णो नीरुजः शोफस्तं विद्यादुपशीर्षकम्‌॥२१॥

यथादोषोदयं ब्रूयात्‌ पिटिकार्बुदविद्रधीन्‌।

कपाले क्लेदबहुलाः पित्तासृक्श्लेष्मजन्तुभिः॥२२॥

कङ्गुसिद्धार्थकनिभाः पिटिकाः स्युररुंषिकाः।

कण्डूकेशच्युतिस्वापरौक्ष्यकृत्‌ स्फुटनं त्वचः॥२३॥

सुसूक्ष्मं कफवाताभ्यां विद्याद्दारुणकं तु तत्‌।

रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्‌॥२४॥

प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः।

रोमकूपान्‌ रुणद्ध्यस्य तेनान्येषामसम्भवः॥२५॥

तदिन्द्रलुप्तं रुज्यां च प्राहुश्चाचेति चापरे।

खलतेरपि जन्मैवं शातनं तत्र तु क्रमात्‌॥२६॥

सा वातादग्निदग्धाभा, पित्तात्स्विन्नसिरावृता।

कफाद्धनत्वग्वर्णांश्च यथास्वं निर्दिशेत्‌ त्वचि॥२७॥

दौषैः सर्वाकृतिः सर्वैरसाध्या सा नखप्रभा।

दग्धाग्निनेव निर्लोमा सदाहा या च जायते॥२८॥

शोकश्रमक्रोधकृतः शरीरोष्मा शिरोगतः।

केशान्‌ सदोषः पचति पलितं सम्भवत्यतः॥२९॥

तद्वातात्स्फुटितं श्यावं खरं रूक्षं जलप्रभम्‌।

पित्तात्सदाहं पीताभं, कफात्‌ स्निग्धं विवृद्धिमत्‌॥३०॥

स्थूलं सुशुक्लं, सर्वैस्तु विद्याद्व्यामिश्रलक्षणम्‌।

शिरोरुजोद्भवं चान्यद्विवर्णं स्पर्शनासहम्‌॥३१॥

असाध्या सन्निपातेन खलतिः पलितानि च।

शरीरपरिणामोत्थान्यपेक्षन्ते रसायनम्‌॥३२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने शिरोरोगविज्ञानीयो नाम त्रयोविंशोऽध्यायः॥२३॥

Last updated on September 7th, 2021 at 09:48 am

Font Resize
en_USEnglish