Skip to content

01. Aayushkaameeya – Sootra – AH

अष्टाङ्गहृदयस्य (सूत्रस्थानम्‌) आयुष्कामीयः

प्रथमोऽध्यायः

रागादिरोगान्‌ सततानुषक्तान्‌ अशेषकायप्रसृतानशेषान्‌।

औत्सुक्यमोहारतिदाञ्जघान योऽपूर्ववैद्याय नमोऽस्तु तस्मै॥१॥

अथात आयुष्कामीयमध्यायं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

आयुःकामयमानेन धर्मार्थसुखसाधनम्‌।

आयुर्वेदोपदेशेषु विधेयः परमादरः॥२॥

ब्रह्मास्मृत्वाऽऽयुषो वेदं प्रजापतिमजिग्रहत्‌।

सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान्मुनीन्‌॥३॥

तेऽग्निवेशादिकांस्ते तु पृथक्‌ तन्त्राणि तेनिरे।

तेभ्योऽतिविप्रकीर्णेभ्यः प्रायः सारतरोच्चयः॥४॥

क्रियतेऽष्टाङ्गहृदयं नातिसंक्षेपविस्तरम्‌।

कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान्‌॥५॥

अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता।

वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः॥६॥

विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च।

ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः॥७॥

वयोहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्‌।

तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः॥८॥

कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि।

शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषक्रिमेः॥९॥

तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक्‌।

समधातुः समस्तासु श्रेष्ठा, निन्द्या द्विदोषजाः॥१०॥

तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश्चलोऽनिलः।

पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम्‌॥११॥

स्रिग्धः शीतो गुरुर्मन्दः श्लक्ष्णोमृत्स्नः स्थिरः कफः।

संसर्गः सन्निपातश्च तद्द्वित्रिक्षयकोपतः॥१२॥

रसासृङ्गमांसमेदोस्थिमज्जशुक्राणि धातवः।

सप्त दूष्याः- मला मूत्रशकृत्स्वेदादयोऽपि च॥१३॥

वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः।

रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः॥१४॥

षड्‌द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः।

तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम्‌॥१५॥

कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते।

शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा॥१६॥

उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतम्‌।

त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः॥१७॥

गुरुमन्दहिमस्निग्धश्लक्ष्णसान्द्रमृदुस्थिराः।

गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः॥१८॥

कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः।

सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम्‌॥१९॥

रोगस्तु दोषवैषम्यं, दोषसाम्यमरोगता।

निजागन्तुविभागेन तत्र रोगा द्विधा स्मृताः॥२०॥

तेषां कायमनोभेदादधिष्ठानमपि द्विधा।

रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ॥२१॥

दर्शनस्पर्शनप्रश्नै: परीक्षेत च रोगिणम्‌।

रोगं निदानप्राग्रूपलक्षणोपशयाप्तिभिः॥२२॥

भूमिदेहप्रभेदेन देशमाहुरिह द्विधा।

जाङ्गलं वातभूयिष्ठमनूपं तु कफोल्बणम्‌॥२३॥

साधारणं सममलं त्रिधा भूदेशमादिशेत्‌।

क्षणादिर्व्याध्यवस्था च कालो भेषजयोगकृत्‌॥२४॥

शोधनं शमनं चेति समासादौषधं द्विधा।

शरीरजानां दोषाणां क्रमेण परमौषधम्‌॥२५॥

बस्तिर्विरेको वमनं तथा तैलं घृतं मधु।

धीधैर्यात्मादिविज्ञानं मनोदोषौषधं परम्‌॥२६॥

भिषक्‌ द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्‌।

चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम्‌॥२७॥

दक्षस्तीर्थात्तशास्त्रार्थो दृष्टकर्मा शुचिर्भिषक्‌।

बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम्‌॥२८॥

अनुरक्तः शुचिर्दक्षो बुद्धिमान्‌ परिचारकः।

आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्त्ववानपि॥२९॥

(साध्योऽसाध्य इति व्याधिर्द्विधा, तौ तु पुनर्द्विधा।

सुसाध्यः कृच्छ्रसाध्यश्च, याप्यो यश्चानुपक्रमः॥१॥)

सर्वौषधक्षमे देहे यूनः पुंसो जितात्मनः।

अमर्मगोऽल्पहेत्वग्ररूपरूपोऽनुपद्रवः॥३०॥

अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि।

ग्रहेष्वनुगुणेष्वेकदोषमार्गो नवः सुखः॥३१॥

शस्त्रादिसाधनः कृच्छ्रः सङ्करे च ततो गदः।

शेषत्वादायुषो याप्यः पथ्याभ्यासाद्विपर्यये॥३२॥

अनुपक्रम एव स्यात्स्थितोऽत्यन्तविपर्यये।

औत्सुक्यमोहारतिकृद्‌ दृष्टरिष्टोऽक्षनाशनः॥३३॥

त्यजेदार्तं भिषग्भूपैर्द्विष्टं तेषां द्विषं द्विषम्‌।

हीनोपकरणं व्यग्रमविधेयं गतायुषम्‌॥३४॥

चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्‌।

तन्त्रस्यास्य परं चातो वक्ष्यतेऽध्यायसङ्‌ग्रहः॥३५॥

आयुष्कामदिनर्त्वीहारोगानुत्पादनद्रवाः।

अन्नज्ञानान्नसंरक्षामात्राद्रव्यरसाश्रयाः॥३६॥

दोषादिज्ञानतद्भेदतच्चिकित्साद्व्युक्रमाः।

शुद्ध्यादिस्नेहनस्वेदरेकास्थापननावनम्‌॥३७॥

धूमगण्डूषदृक्सेकतृप्तियन्त्रकशस्त्रकम्‌।

शिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मिकौ॥३८॥

सूत्रस्थानमिमेऽध्यायास्त्रिंशत्‌ – शारीरमुच्यते।

गर्भावक्रान्तितद्व्यापदङ्गमर्मविभागिकम्‌॥३९॥

विकृतिर्दूतजं षष्ठम्‌ निदानं सार्वरोगिकम्‌।

ज्वरासृक्श्वासयक्ष्मादिमदाद्यर्शोतिसारिणाम्‌॥४०॥

मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च।

पाण्डुकुष्ठानिलार्तानां वातास्रस्य च षोडश॥४१॥

चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि।

वमौ मदात्ययेऽर्शःसु, विशि द्वौ, द्वौ च मूत्रिते॥४२॥

विद्रधौ गुल्मजठरपाण्डुशोफविसर्पिषु।

कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम्‌॥४३॥

द्वाविंशतिरिमेऽध्यायाः – कल्पसिद्धिरतः परम्‌।

कल्पो वमेर्विरेकस्य तत्सिद्धिर्बस्तिकल्पना॥४४॥

सिद्धिर्बस्त्यापदां षष्ठो द्रव्यकल्पः अत उत्तरम्‌।

बालोपचारे तद्व्याधौ तद्‌ग्रहे, द्वौ च भूतगे॥४५॥

उन्मादेऽथ स्मृतिभ्रंशे, द्वौ द्वौ वर्त्मसु सन्धिषु।

दृक्तमोलिङ्गनाशेषु त्रयो, द्वौ द्वौ च सर्वगे॥४६॥

कर्णनासामुखशिरोव्रणे, भङ्गे भगन्दरे।

ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम्‌॥४७॥

विषे भुजङ्गे कीटेषु मूषकेषु रसायने।

चत्वारिंशोऽनपत्यानामध्यायो बीजपोषणः॥४८॥

इत्यध्यायशतं विंशं षड्भिः स्थानैरुदीरितम्‌॥४८.१.२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुवाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने आयुष्कामीयो नाम प्रथमोऽध्यायः॥१॥

Last updated on August 5th, 2021 at 06:32 am

Font Resize
en_USEnglish